Sanskrit Aamod Std 9 Digest Chapter 3 धन्यौ तौ दातृयाचकौ Textbook Questions and Answers
भाषाभ्यास:
1. एकवाक्येन उत्तरत।
प्रश्न अ.
वरतन्तुः ऋषिः कीदृशः आसीत् ?
उत्तरम् :
वरतन्तुःऋषि: अध्यापने निपुण : प्रकृत्या दवालुः च आसीत्।
प्रश्न आ.
कौत्सेन कति विद्याः अधीताः ?
उत्तरम् :
कौत्सेन चतुर्दशविद्या; अधीताः।
प्रश्न इ.
कौत्सः कस्य शिष्यः आसीत् ?
उत्तरम् :
कौत्सः वरतन्तो: शिष्यः आसीत्।
प्रश्न ई.
रघोः यज्ञस्य नाम किम् ?
उत्तरम् :
रघो: यज्ञस्य नाम विश्वजित्।
प्रश्न उ.
कः स्वर्णवृष्टिम् अकरोत् ?
उत्तरम् :
कुबेरः स्वर्णवृष्टिम् अकरोत् ।
2. प्रश्ननिर्माणं कुरुत।
प्रश्न अ.
वरतन्तुः अध्यापने निपुणः ।
उत्तरम् :
वरतन्तुः कस्मिन् निपुण:?
प्रश्न आ.
रघु: कौत्सस्य भक्त्या प्रभावितः।
उत्तरम् :
रघुः कस्य भक्त्या प्रभावितः?
3. अ. समूहेतरं पदं चिनुत लिखत च।
प्रश्न क.
यज्ञः, क्रतुः, सप्ततन्तुः वरतन्तुः।
उत्तरम् :
यज्ञः, क्रतुः, सप्ततन्तुः, वरतन्तुः – यज्ञः।
प्रश्न ख.
पर्जन्यः, वर्षा, दृष्टिः, वृष्टिः ।
उत्तरम् :
पर्जन्यः, वर्षा, दृष्टिः, वृष्टिः – दृष्टिः ।
प्रश्न ग.
विज्ञः, अज्ञः, अभिज्ञः, पटुः।
उत्तरम् :
विज्ञः, अज्ञः, अभिज्ञः, पटुः – अज्ञः।
प्रश्न घ.
माभृत्, याचकः, वनीयकः, मार्गणः ।
उत्तरम् :
माभृत, याचकः, वनीयकः, मार्गणः – क्षमाभृत्।
प्रश्न ङ.
कुबेरः, यागः, धनाधिपः, धनदः ।
उत्तरम् :
कुबेरः, यागः, धनाधिपः, धनदः – यागः।
आ. विरुद्धार्थकशब्दं लिखत।
प्रभूतम्, समीपम् ।
प्रश्न 1.
विरुद्धार्थकशब्दं लिखत।
प्रभूतम्, समीपम् ।
उत्तरम् :
- प्रभूतम् × अल्पम्
- समीपम् × दूरे
4. वाक्यं शुद्धं कुरुत।
प्रश्न अ.
अहं मुद्राः गुरुं दातुं ऐच्छम्।
उत्तरम् :
अहं मुद्रा: गुरवे दातुम् ऐच्छम् ।
प्रश्न आ.
वरतन्तुः कौत्सम् अकथयत् ।
उत्तरम् :
बरतन्तुः कौत्साय अकथयत्।
5. पाठात् उकारान्तनामानि विशेषणानि च चित्वा लिखत ।
प्रश्न 1.
पाठात् उकारान्तनामानि विशेषणानि च चित्वा लिखत ।
उत्तरम् :
‘धन्यौ तौ दातृयाचकौ’ या कथेला महाकवी कालिदासच्या ‘रघुवंशम्’ या महाकाव्याचा संदर्भ आहे. आपले गुरु बरतन्तु यांना दक्षिणा देण्यासाठी कौत्स रघूकडे जातो. मात्र सर्वस्वाचे दान केल्याने रघू कौत्साला मदत करू शकत नाही. तरीसुद्धा आपल्या पराक्रमाने ता देवांचा खजिनदार कुबेरावर स्वारी करण्याचा निश्चय करतो आणि कौत्साला मदत करण्याचे आश्वासन देतो.
रघूच्या पराक्रमाची पूर्ण जाणीव असलेला कुबेर त्याला घाबरून अगोदरच सुवर्णवृष्टी करतो. रघू कौत्साला सगळे सोने देऊ पाहतो. मात्र गुरुदक्षिणेसाठी आपल्याला फक्त चौदा कोटी सुवर्णमुद्रांची आवश्यकता असल्याचे सांगत अधिक दान घेण्याचे नमपणे आवश्यकता असल्याचे सांगत नाकारतो.
यज्ञामध्ये संपत्ती सढळहस्ते दान करणाऱ्या आणि सुवर्णवृष्टी होऊनही त्यातील कशाचीही इच्छा न बाळगणाऱ्या नि:स्वार्थी आणि दानशूर रघूचे आणि आवश्यकतेपेक्षा काहीही अधिक नको असलेल्या निरिच्छ कौत्साचे दर्शन होते. ही सत्पात्री आणि कुठल्याही स्वार्थाशिवाय दान कसे करावे, याचे आदर्श उदाहरण प्रस्तुत करते.
The story ‘erit at styret’ is based on ‘रघुवंशम्’ of कालिदास. Sage वरतन्तु’s disciple, air had approached King Raghu to seek help for giving Guru Dakshina. But was unable to help him immediately as he had given away all his wealth in the form of charity in the विश्वजित् sacrifice.
Yet, Raghuhad assured कोत्स of help and set to invade कुबेर, कुबेर, who was aware of रघु’s valour, showed gold coins abundantly even before the could attach him. E is ready to donate all of it but कौत्स modestly refused to take more than required. He took only fourteen crores gold coins as guru dakshina.
This story portrays the ideal, generous donor and selfless seeker where the donor is ready to offer everything he has but the seeker doesn’t want to take anything more than what is required. This story also emphasizes that charity should be done among the deserving ones. Values like charity and selflessness that have stood through ages strike us even today.
6. मञ्जूषात: उचितैः अव्ययैः कोष्टकं पूरयत ।
प्रश्न 1.
(उपगम्य, श्रुत्वा, दृष्ट्रा, आहूय, दातुम्, आदातुम्, परीक्षितुम्, विहाय, समाप्य)
उत्तरम् :
पूर्वकालवाचकं त्वान्तम् | पूर्वकालवाचकं ल्यबन्तम् | हेत्वर्थकं तुमन्तम् |
श्रुत्वा | समाप्य | दातुम् |
Sanskrit Aamod Class 9 Textbook Solutions Chapter 3 धन्यौ तौ दातृयाचकौ Additional Important Questions and Answers
एकवाक्येन उत्तरत।
प्रश्न 1.
तपोवने का ऋषिः आसीत् ?
उत्तरम् :
तपोवने वरतन्तुः नाम ऋषिः आसीत्।
प्रश्न 2.
वरतन्तो: आश्रमे कीदृशा: बटव: आसन्?
उत्तरम् :
वरतन्तो: आश्रमे बहवः मेधाविन: बटव: आसन्।
प्रश्न 3.
कौत्सः कः आसीत्?
उत्तरम् :
कौत्सः बदुः आसीत्।
प्रश्न 4.
कौत्सः कदा किमर्थं च गुरुम् उपागच्छत्?
उत्तरम् :
कौत्सः विद्याध्ययनं समाप्य गुरुदक्षिणां दातुम् उत्सुक: गुरुम् उपागच्छत्।
प्रश्न 5.
कौत्सः गुरवे स्वेच्छां कथम् अकथयत्?
उत्तरम् :
कौत्सः गुरवे स्वेच्छां सविनयम् अकथयत्।
प्रश्न 6.
वरतन्तुः केन भृशं प्रीतोऽस्ति?
उत्तरम् :
वरतन्तुः कौत्सस्य अध्ययनेन सेवया भृशं प्रीतोऽस्ति।
प्रश्न 7.
वरतन्तुः किं न इच्छति?
उत्तरम् :
वरतन्तुः कामपि दक्षिणां न इच्छति।
प्रश्न 8.
कौत्स: वारंवारं किम् ऐच्छत्?
उत्तरम् :
कौत्सः वारंवारं दक्षिणां दातुम् ऐच्छत्।
प्रश्न 9.
कौत्स: केन निवारितः?
उत्तरम् :
कौत्सः गुरुणा वरतन्तुना निवारितः।
प्रश्न 10.
कौत्स: कम् उपागच्छत्?
उत्तरम् :
कौत्स: गुरुम् उपागच्छत्।
प्रश्न 11.
कति सुवर्णमुद्रा: आनेतुं वरतन्तुः अकथयत्?
उत्तरम् :
चतुर्दशकोटिसुवर्णमुद्रा: आनेतुं वरतन्तुः अकथयत्।
प्रश्न 12.
चतुर्दशकोटिसुवर्णमुद्रा: दातुं क : समर्थ:?
उत्तरम् :
चतुर्दशकोटिसुवर्णमुद्रा: दातुं महाराजः रघुः समर्थः ।
प्रश्न 13.
कौत्सः कस्य समीपम् अगच्छत् ?
उत्तरम् :
कौत्सः रघो: समीपम् अगच्छत्।
प्रश्न 14.
दिग्विजयानन्तरं रघुः किम् अकरोत्?
उत्तरम् :
दिग्विजयानन्तरं रघुः “विश्वजित्’ नाम्नि यज्ञे अशेष धनं दानरूपेण अयच्छत्।
प्रश्न 15.
कं दृष्ट्वा कौत्स: निवृत्तः?
उत्तरम् :
रिक्तहस्तं रचुं दृष्ट्वा कौत्स: निवृत्तः।
प्रश्न 16.
रघुः कौत्सम् आहूय किम् अपृच्छत्?
उत्तरम् :
रघुः कौत्सम् आहूय आगमनस्य प्रयोजनम् अपृच्छत्।
प्रश्न 17.
कुत्र विश्राम कर्तुं रघुः कौत्साय अकथयत्?
उत्तरम् :
रघो: यज्ञशालायां विश्रामं कर्तुं रघुः कौत्साय अकथयत्।
प्रश्न 18.
रघुः केन / कथं प्रभावित: जात:?
उत्तरम् :
रघु: कौत्सस्य गुरुभक्त्या प्रभावितः जातः।
प्रश्न 19.
रघुः किं कर्तुं सङ्कल्पम् अकरोत् ?
उत्तरम् :
रघुः कुबेरम् आक्रान्तुम् सङ्कल्पम् अकरोत्।
प्रश्न 20.
कुबेर: किम् अकरोत्?
उत्तरम् :
कुबेर: रघो: भयात् आक्रमणात् पूर्वमेव प्रभूतां सुवर्णवृष्टिम् अकरोत्।
प्रश्न 21.
साकेतजनानां कृते को पूजनीयौ अभवताम्?
उत्तरम् :
साकेतजनानां कृते दानशूरः रघुः तथा निरिच्छ: कौत्सः पूजनीयौ अभवताम्।
प्रश्न 22.
कौत्सः कीदृशः आसीत्?
उत्तरम् :
कौत्स: नि:स्पृहः / निरिच्छ: आसीत्।
प्रश्न 23.
कथायाः किं नाम?
उत्तरम् :
कथायाः नाम धन्यौ तौ दात्याचकौ।
प्रश्न 24.
अत्र क: दाता?
उत्तरम् :
अत्र रघुः दाता।
प्रश्न 25.
अत्र क: याचकः?
उत्तरम् :
अत्र कौत्स : याचकः।
प्रश्ननिर्माणं कुरुत।
प्रश्न 1.
रघुः कौत्साय सर्वं सुवर्णं दातुम् ऐच्छत्।
उत्तरम् :
रघुः कौत्साय किं दातुम् ऐच्छत्?
प्रश्न 2.
अहं गुरुदक्षिणार्थ केवलं चतुर्दशकोटिसुवर्णमुद्राः अभिलषामि।
उत्तरम् :
अहं किमर्थं केवलं चतुर्दशकोटिसुवर्णमुद्राः अभिलषामि?
प्रश्न 3.
द्वावपि साकेतजनानां कृते पूजनीयौ अभवताम्।
उत्तरम् :
द्वावपि केषां कृते पूजनीयौ अभवताम्?
प्रश्न 4.
कस्मिंश्चित् तपोवने वरतन्तुः आसीत्।
उत्तरम् :
कुत्र वरतन्तुः आसीत्?
प्रश्न 5.
कौत्स: स्वस्य इच्छां गुरवे अकथयत्।
उत्तरम् :
कौत्स: स्वस्य इच्छां कस्मै अकथयत् ?
प्रश्न 6.
कौत्स परीक्षितुं बरतन्तुः अकथयत्।
उत्तरम् :
कं परीक्षितुं वरतन्तुः अकथयत्?
प्रश्न 7.
गुरोः वचनं श्रुत्वा कौत्स: चिन्ताकुलः जातः।
उत्तरम् :
कस्य वचनं श्रुत्वा कौत्स: चिन्ताकुलः जातः ।
सत्यं वा असत्यं लिखत।
प्रश्न 1.
- वरतन्तु: नाम ऋषिः नदीतटे वसति स्म।
- वरतन्तो: स्वभावे दयालुता आसीत्।
- वरतन्तो: आश्रमे मूढाः बटव: आसन् ।
- कौत्सः नाम बटुः तस्य सेवया गुरुं प्रसन्नम् अकरोत् ।
- कौत्सः गुरवे किमपि दातुं न ऐच्छत्।
- विद्याध्ययनस्य पश्चात् कौत्स: दक्षिणां दातुमैच्छत्।
उत्तरम् :
- असत्यम्
- सत्यम्
- असत्यम्
- सत्यम्
- असत्यम्
- सत्यम्
प्रश्न 2.
- कौत्सेन चतसः विद्या: अधीताः।
- गुरु: रजतमुद्राः इच्छति।
- गुरुवचनं श्रुत्वा कौत्सः चिन्तितः जातः ।
- रघुणा ‘अश्वमेधः’ यज्ञः कृतः ।
- कौत्सस्य इच्छा पूरयितुं रघुः तत्परः।
उत्तरम् :
- असत्यम्
- असत्यम्
- सत्यम्
- असत्यम्
- सत्यम्
प्रश्न 3.
- रघो: गुरुभक्त्या कौत्सः प्रभावितः।
- कुबेर: आक्रमणस्य पश्चात् सुवर्णवृष्टिम् अकरोत्।
- कौत्स: केवलं चतुर्दशकोटिमुद्राः इच्छति।
- याचक: अधिकं ग्रहीतुं न ऐच्छत्।
- राजा सर्वस्वस्य दाता।
- साकेतनगरी नाम अयोध्यानगरी।
उत्तरम् :
- असत्यम्
- असत्यम्
- सत्यम्
- सत्यम्
- सत्यम्
- सत्यम्
कः कं वदति।
प्रश्न 1.
गच्छ, स्वस्ति तुभ्यम्।
उत्तरम् :
बरतन्तु: गुरु: कौत्सं वदति।
प्रश्न 2.
- “अत: चतुर्दशकोटिसुवर्णमुद्रा: आनय।”
- “रघु प्रति गच्छामि।”
- “रघो, अहं गुरुदक्षिणार्थ चतुर्दशकोटिसुवर्णमुद्राः गुरवे दातुमिच्छामि। किन्तु भवान् पूर्वमेव सर्वस्ववानम् अकरोत्। अत: अहम् अन्यत्र गच्छामि।”
- “हे कौत्स, तिष्ठ। मम यज्ञशालायां विश्रामं कुरु । अहं निश्चयेन तव साहाय्यं करोमि।”
उत्तरम् :
- बरतन्तु:/गुरु: कौत्सं वदति।
- कौत्स: आत्मानं वदति।
- कौत्सं रघु वदति।
- रघुः कौत्सं वदति।
प्रश्न 3.
“भोः राजन्, अहं केवलं गुरुदक्षिणार्थं चतुर्दशकोटिसुवर्णमुद्राः अभिलषामि। न वाञ्छामि अधिकम्।”
उत्तरम् :
कौत्स: रघु वदति।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
प्रश्न 1.
कौत्स: गुरुम् उपागच्छत् यतः ………..।
a. सः विद्याम् अध्येतुम् ऐच्छत्।
b. सः गुरवे दक्षिणां दातुम् ऐच्छत्।
उत्तरम् :
कौत्सः गुरुम् उपागच्छत् यतः सः गुरवे दक्षिणां दातुम् ऐच्छत्।
प्रश्न 2.
गुरु: वरतन्तु: अतीव प्रसन्नः अभवत् यतः ………..।
a. तस्य सर्वे शिष्या: मेधाविनः।
b. तस्मै कौत्सस्य सेवा अरोचत।
उत्तरम् :
गुरुः वरतन्तुः अतीव प्रसन्नः अभवत् यतः तस्मै कौत्सस्य सेवा अरोचत।
प्रश्न 3.
वरतन्तुः चतुर्दशकोटिसुवर्णमुद्राः इच्छति यतः……..।
a. स: निर्धन: आचार्य: आसीत्।
b. स: कौत्सं चतुर्दशविद्या: पाठितवान्।
उत्तरम् :
वरतन्तुः चतुर्दशकोटिसुवर्णमुद्राः इच्छति यतः सः कौत्सं चतुर्दशविद्या: पाठितवान्।
प्रश्न 4.
कौत्स: रघु प्रति गच्छति यतः……..,
a. स: “विश्वजित्’ यज्ञस्य मुख्यः पुरोहितः।
b. स: रघु सुवर्णमुद्राः याचितुम् ऐच्छत्।
उत्तरम् :
कौत्सः रघु प्रति गच्छति यतः, सः रघु सुवर्णमुद्रा: याचितुम् ऐच्छत्।
प्रश्न 5.
रघुःसुवर्णमुद्रा: तत्क्षणमेव दातुम् असमर्थः यतः……..।
a. स: सर्वस्वदानम् अकरोत्।
b. स: दानं दातुं नैच्छत्।
उत्तरम् :
रघुः सुवर्णमुद्राः तत्क्षणमेव दातुम् असमर्थः यतः सः सर्वस्वदानम् अकरोत्।
प्रश्न 6.
रघु: कुबेरमाकान्तुम् ऐच्छत् यतः ………..।
a. स: कौत्साय दानं दातुम् ऐच्छत्।
b. सः स्वस्य कृते धनम् ऐच्छत्।
उत्तरम् :
रघुः कुबेरमाकान्तुम् ऐच्छत् यतः सः कौत्साय दानं दातुम् ऐच्छत्।
प्रश्न 7.
कुबेर: सुवर्णवृष्टिम् अकरोत् यतः ……
a. स: कौत्सस्य गुरुभक्त्या प्रभावितः ।
b. स: रघो: तस्य आक्रमणात् च भीतः।
उत्तरम् :
कुबेर: सुवर्णवृष्टिम् अकरोत् यतः सः रघो: तस्य आक्रमणात् च भीतः।
प्रश्न 8.
राजा सर्वस्वं दातुम् ऐच्छत् यतः ………..।
a. स: पूर्वमेव धनान्यः आसीत्।
b. स: दानशील: आसीत्।
उत्तरम् :
राजा सर्वस्वं दातुम् ऐच्छत् यतः सः दानशील : आसीत्।
प्रश्न 9.
कौत्स: अधिकं नैच्छत् यतः ………..।
a. स: नि:स्पृहः आसीत्।
b. तस्य समीपे मुद्राः आसन्।
उत्तरम् :
कौत्स: अधिकं नैच्छत् यतः सः नि:स्पृहः आसीत्।
प्रश्न 10.
कौत्स: रघुः च पूजनीयौ अभवताम् यतः ………..।
a. तौ साकेतजनान् शत्रुभ्य: अरक्षताम्।
b. तयोः नि:स्पृहता, दानशूरता अवर्णनीया।
उत्तरम् :
कौत्सः रघुः च पूजनीयौ अभवताम् यतः तयोः नि:स्पृहता, दानशूरता अवर्णनीया।
शब्दस्य वर्णविग्रहं कुरुत।
- प्रकृत्या – प्+ र + क् + ऋ + त् + य् + आ।
- कश्चित् – क् + अ + श् + च् + इ + त्।
- कौत्सः – क् + औ + त् + स् + अः।
- चतुर्दशविद्या:- च् + अ + त् + र + द् + अ + श् + व् + इ + द् + य् + आः।
- श्रुत्वा – श् + र + उ + त् + व् + आ।
- गुरुभक्त्या – ग् + उ + र् + उ + भ् + अ + क् + त् + य् + आ।
- आक्रान्तुम् – आ + क् + + आ + न् + त् + उ + म्।
- नि:स्पृहः – न् + इ + स् + स् + प् + + + + अः।
- सङ्कल्पम् – स् + अ् + ङ् + क् + अ + ल् + प् + अ।
- द्वावपि – द् + व् + आ + व् + अ + प् + इ।
विशेषण – विशेष्य – सम्बन्धः ।
प्रश्न 1.
विशेषणम् | विशेष्यम् |
निपुणः, दयालुः, प्रीतः | ………. |
बहवः, मेधाविनः | ………. |
निवारितः | ………. |
अधीताः | ………. |
चिन्ताकुलः | ………. |
………. | मुद्राः |
………. | धनम् |
प्रभावितः, सन्तुष्टः, दानशूर: | ………. |
………. | सुवर्णवृष्टिम |
नि:स्पृहः, निरिच्छः | ………. |
………. | दातृयाचको |
उत्तरम् :
विशेषणम् | विशेष्यम् |
निपुणः, दयालुः, प्रीतः | वरतन्तु: |
बहवः, मेधाविनः | बटवः |
निवारितः | कौत्सः |
अधीताः | चतुर्दशविद्याः |
चिन्ताकुलः | कौत्सः |
एतावती: | मुद्राः |
अशेषम् | धनम् |
प्रभावितः, सन्तुष्टः, दानशूर: | रघु: |
प्रभूताम् | सुवर्णवृष्टिम |
नि:स्पृहः, निरिच्छः | कौत्स: |
पूजनीयौ | दातृयाचको |
त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।
त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ट्वा इत्वा / अयित्वा | ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य | तुमन्त अव्यय धातु + तुम् / धुम् / टुम् / डुम् / इतुम् / अयितुम् |
दृष्ट्वा | विहाय | परीक्षितुम् |
श्रुत्वा | विचार्य | दातुम् |
दृष्ट्वा | आहूय | दातुम्, आदातुम्, आक्रान्तुम् |
विभक्त्यन्तरूपाणि।
- प्रथमा – वरतन्तुः, ऋषिः, निपुणः, दयालुः, सः, कौत्सः, बटुः, गुरुः, प्रीतः, निवारितः, बटवः, मेधाविनः, वरतन्तुः, चतुर्दशविद्याः, अधीताः, मुद्राः, रघुः, अहम्, भवान्, रघुः, कौत्सः, राजा, दानशूरः, निरिच्छः, द्वौ, पूजनीयौ।
- द्वितीया – विद्याध्ययनम्, गुरुदक्षिणाम्, गुरुम्, काम, इच्छाम्, अन्याम्, तम्, महाराजम्, रघुम्, कुबेरम्, सङ्कल्पम्, प्रभूताम, सुवर्णवृष्टिम्, कौत्सम्।
- तृतीया – अध्ययनेन, सेवया, त्वया, अनेन, प्रसङ्गेन।
- चतुर्थी – गुरवे, गुरवे, तस्मै।
- षष्ठी – तस्य, स्वस्य, गुरोः, मम, तव, साकेतजनानाम्।
- सप्तमी – अध्यापने, आश्रमे, यज्ञे, यज्ञशालायाम्, रघोः, भयात्, आक्रमणात्।
समूहेतरपदं चिनुत।
- दृष्ट्वा, अवलोक्य, द्रष्टुम्, विलोक्य – द्रष्टुम्।
- गुरवे, वरतन्तवे, कौत्साय, रघवे – कौत्साय।
समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।
1. राजा – भोज: नाम राजा सुप्रसिद्धः ।
भोज: नाम पार्थिवः / भूपति:/क्ष्माभृत् सुप्रसिद्धः।
2. गुरुः – अहं गुरुं नमामि ।
अहं आचार्य /अध्यापकं नमामि ।
3. निपुणः – विनायक: चित्रकलायां निपुणः।
विनायक: चित्रकलायां पारङ्गत:/ कुशल:।
4. यज्ञः – युधिष्ठिरः यज्ञे दानम् अयच्छत्।
युधिष्ठिरः मखे/क्रतौ/यागे दानम् अयच्छन्।
5. कुबेरः – देवानां कोषाधिकारी कुबेरः।
देवानां कोषाधिकारी धनाधिप:/धनदः।
6. याचक:- याचक: दानं याचते।
वनीयक:/मार्गण: दानं याचते।
7. बचः – सज्जनानां वच: श्रवणीयम्।
सज्जनानां उक्ति: श्रवणीया।
सज्जनानां भाषितं/वचनं श्रवणीयम्।
8. प्रभूतम् – नरः प्रभूतं धनम् इच्छति।
नर: प्रचुरं/बहु धनम् इच्छति।
व्याकरणम् :
नाम – तालिका।
सर्वनाम – तालिका।
धातु – तालिका।
समासाः।
समस्तपदम् | अर्थ: | समासविग्रहः | समासनाम |
दातृयाचको | donor and seeker | दाता च याचकः च। | इतरेतर द्वन्द्व समास |
तपोवनम् | forest for penance | तपसे वनम् । | चतुर्थी तत्पुरुष समास |
गुरुदक्षिणा | dakshina for guru | गुरवे दक्षिणा। | चतुर्थी तत्पुरुष समास |
गुरुदक्षिणार्थम् | for guru dakshina | गुरुदक्षिणायै इदम्। | चतुर्थी तत्पुरुष समास |
सुवर्णवृष्टिः | shower of gold | सुवर्णस्य वृष्टिः। | षष्ठी तत्पुरुष समास |
दानशूर: | brave in charity | दाने शूरः। | सप्तमी तत्पुरुष समास |
धातुसाधितविशेषणानि।
धातुसाधित – विशेषणम् | विशेष्यम् |
प्रीत: | गुरु: बरतन्तु: |
निवारितः | कौत्स: |
अधीताः | चतुर्दशविद्या: |
निवृत्तः | कौत्स: |
प्रभावित: | रघुः |
धन्यौ तौ दातृयाचकौ Summary in Marathi and English
प्रस्तावना :
महाकवी कालिदासांचे ‘रघुवंशम्’ हे महाकाव्य सुप्रसिद्ध आहे. त्यातील पाचव्या सर्गात महाराज रघू यांच्या आयुष्यात घडलेल्या प्रसंगांचे वर्णन कवीने केले आहे. रघू महाराजांनी विश्वजित यज्ञ करून त्या यज्ञात सर्वस्वाचे दान केले. त्यामुळे त्यांचा खजिना रिकामा झाला. त्यावेळी कौत्स नावाचा एक विद्यार्थी तेथे आला.
कौत्साने आपल्या गुरुंना दक्षिणा देण्यासाठी त्याने रघूपाशी धनाची इच्छा प्रकट केली. हाच प्रसंग येथे वर्णिला आहे. रघुव कौत्स यांच्या रूपाने दानशूरता व निःस्वार्थी वृत्तीचे दर्शन घडते.
Raghuvansham the epic poetry composed by Kalidasa is world famous There, in the fifth canto, the poet describes an incident that took place in the life of King Raghu. King Raghu had performed the Vishuvajit sacrifice and performed Sartastxadakshina that is he had given away all the wealth in the form of charity and had become completely empty.
His coffers too were completely empty. It was then that a young student named Kautsa came there. He wished for wealth in order to give it as Guru Dakshina. This very event is described here. Through this episode values like charity and selflessness are made live in the form of Raghu and Kausta respectively.
परिच्छेद : 1.
कस्मिंश्चित् ……………… ऐच्छत्।
कस्मिंश्चित् तपोवने वरतन्तुः नाम ऋषिः आसीत्। सः अध्यापने निपुणः प्रकृत्या दयालुः च आसीत्। तस्य आश्रमे बहवः मेधाविनः वटव: आसन्। तेषु कश्चित् कौत्स: नाम बटुः आसीत्। विद्याध्ययनं समाप्य गुरुदक्षिणां दातुमुत्सुक: कौत्सः गुरुम् उपागच्छत् । सविनयं च स्वस्य इच्छां गुरवे अकथयत् । तस्य वचः श्रुत्वा गुरुः उक्तवान्, “वत्स कौत्स, तव अध्ययनेन सेवया च भृशं प्रीतोऽस्मि । अन्य कामपि दक्षिणां नेच्छामि। गच्छ, स्वस्ति तुभ्यम् ।” गुरुणा वरतन्तुना निवारितः अपि कौत्स: वारंवार दक्षिणां दातुम् ऐच्छत्।
अनुवादः
कोण्या एका तपोवनात वरतंतू ऋषी होते. ते शिकवण्यात कुशल आणि स्वभावाने दयाळू होते. त्याच्या आश्रमात अनेक हुशार ब्राह्मण मुले होती. त्यापैकी कौत्स नावाचा कोणी एक ब्राह्मण मुलगा (बटू) होता. शिक्षण संपवून गुरुदक्षिणा देण्यास उत्सुक असलेला कौत्स गुरुंजवळ गेला.
आणि त्याने नम्रपणे स्वतःची इच्छा गुरुंना सांगितली. त्याचे बोलणे ऐकून गुरु म्हणाले, “बाळ कौत्स, तुझ्या अभ्यासाने आणि सेवेने अतिशय प्रसन्न झालो आहे. मला दुसरी कुठलीही दक्षिणा नको. तू जा, तुझे कल्याण असो.” वरतंतू गुरुंनी नको म्हणूनही (अडवूनही) कौत्साची दक्षिणा द्यायची वारंवार इच्छा होती.
In a certain penance grove there was a sage named Varatantu. He was skilled in teaching and compassionate by nature. There were many intelligent brahmin boys in his hermitage. Among them was a certain boy named Kautsa.
Kautsa who was eager to offer Guru Dakshina after completing his studies approached the Guru. And modestly told his Guru of his desire. Hearing his words the preceptor said, “Child Kautsa, I am extremely pleased by your studies and service.
I do not wish for any other Dakshina. Go, may all be well with you.” Despite being refused by the preceptor Varatantu, Kautsa again and again wished to offer Dakshina.
परिच्छेद : 2.
तदा ………………. करोमि।
तदा तं परीक्षितुं वरतन्तुः कथयत् – ” त्वया मम सकाशात् चतुर्दशविद्याः अधीताः । अत: चतुर्दशकोटिसुवर्णमुद्राः आनय।” गुरोः वचनं श्रुत्वा कौत्स: चिन्ताकुलः जातः । एतावती: सुवर्णमुद्राः कुत: आनयानि ? महाराज रघु विहाय न कोऽपि एतावती: मुद्राः दातुं समर्थः । अतः ‘रघु प्रति गच्छामि’ इति विचार्य कौत्स: रघो: समीपम् अगच्छत् । दिग्विजयानन्तरं रघुः ‘विश्वजित्’ नाम्नि यज्ञे अशेषं धनं दानरूपेण अयच्छत्।
रिक्तहस्तं रघु दृष्ट्वा कौत्स: निवृत्तः। रघुः तम् आहूय आगमनस्य प्रयोजनम् अपृच्छत्। तदा कौत्सः अवदत् “रघो, अहं गुरुदक्षिणार्थ चतुर्दशकोटिसुवर्णमुद्रा गुरवे दातुमिच्छामि। किन्तु भवान् पूर्वमेव सर्वस्वदानम् अकरोत्। अत: अहम् अन्यत्र गच्छामि।” रघुः अवदत्, “हे कौत्स, तिष्ठ। मम यज्ञशालायां विश्रामं कुरु । अहं निश्चयेन तव साहाय्यं करोमि।”
अनुवादः
तेव्हा त्याची परीक्षा घेण्यासाठी वरतंतू म्हणाले, तू माझ्याकडे चौदा विद्या शिकलास. म्हणून चौदा कोटी सुवर्णमुद्रा (सोन्याची नाणी) आण. गुरुंचे बोलणे ऐकून कौत्स चिंतित झाला. ‘एवढ्या सुवर्णमुद्रा मी कुठून आणू?’ महाराज रचूंशिवाय इतक्या सुवर्णमुद्रा देण्यास कोणीही समर्थ नाही.
म्हणून ‘मी रघूकडे जाता’ असा विचार करून कौत्स रघूजवळ गेला. दिग्विजयानंतर रघूने ‘विश्वजित्’ नावाच्या यज्ञात सगळे धन दानरूपाने दिले. मोकळ्या हातांच्या (दान देण्यास असमर्थ) रघूला पाहून कौत्स (तेथून) मागे फिरला. रघूने त्याला बोलावून (त्याच्या) येण्याचे कारण विचारले.
तेव्हा कौत्स म्हणाला, “अहो रघूमहाराज, गुरुदक्षिणेसाठी चौदा कोटी सुवर्णमुद्रा मी गुरुंना देऊ इच्छितो; पण आपण तर अगोदरच सर्वस्वाचे दान केलेत. म्हणून मी दुसरीकडे जातो.” रघू म्हणाले, “हे कौत्स, थांब. माझ्या यज्ञमंडपात तू विश्रांती घे. मी तुला नक्कीच मदत करतो.”
Then in order to test him, Varatantu said, “You have learnt the fourteen vidyas from me. So bring fourteen crore gold coins.” Hearing the words of the preceptor, Kautsa became worried.
From where shall I bring so many gold coins? None other than king Raghu will be able to give so many coins.’ Hence, thinking that ‘Ishall go to Raghu’ Kautsa went to Raghu.
After conquering the directions, Raghu gave away all the wealth in the form of charity in the Vishwajit sacrifice. Seeing Raghu empty-handed Kautsa turned back. Calling him Raghu ask him the purpose of his arrival.
Then Kautsa said, “O Raghu, I wish to give the preceptor fourteen crore gold coins as Guru Dakshina. But your respected one has given away everything in charity before itself. Hence I am going elsewhere”. Raghu replied, OKautsa, wait. Rest in the sacrificial hall. I shall surely help you”.
परिच्छेद : 3.
कौत्सस्य ……………… अभवताम्।
कौत्सस्य गुरुभक्त्या प्रभावित: रघुः कुबेरमाकान्तुं सङ्कल्पम् अकरोत्। कुबेरः रघो: भयात् आक्रमणात् पूर्वमेव प्रभूतां सुवर्णवृष्टिमकरोत्। तत् दृष्ट्वा सन्तुष्टः रघुः कौत्सम् आहूय सर्व सुवर्ण तस्मै दातुमैच्छत् । किन्तु नि:स्पृहः कौत्सः अवदत् – “भो: राजन, अहं केवलं गुरुदक्षिणार्थ चतुर्दशकोटिसुवर्णमुद्राः अभिलषामि।
न वाञ्छामि अधिकम्।” राजा सर्वस्वं दातुम् ऐच्छत् किन्तु याचक: अधिकमादातुं न अध्यलषत्। अनेन प्रसङ्गेन दानशूर; रघु तथा निरिच्छ: कौत्सः च द्वावपि साकेतजनानां (अयोध्यावासिना) कृते पूजनीयौ अभवताम्।
अनुवादः
कौत्साच्या गुरुभक्तीने प्रभावित झालेल्या रघूने कुबेरावर स्वारी करण्याचा निश्चय केला. रघूच्या भीतीने कुबेराने आक्रमणापूर्वीच मोठ्या प्रमाणावर सुवर्णवृष्टी (सोन्याच्या नाण्यांचा पाऊस) केली. ते पाहून प्रसन्न झालेल्या रघूने कौत्साला बोलावून त्याला सगळे सोने
देण्याची इच्छा व्यक्त केली.
पण निर्लोभी कौत्स म्हणाला, “हे राजन्, मला गुरुदक्षिणेसाठी फक्त चौदा कोटी सुवर्णमुद्रा पाहिजेत. त्यापेक्षा जास्त नको.” राजाची सर्वस्व दान करण्याची इच्छा होती, मात्र याचकाला अधिक स्वीकारण्याची इच्छा नव्हती. या प्रसंगामुळे दानशूर रघू तसेच निरिच्छ कौत्स हे दोघेही अयोध्यावासीयांसाठी वंदनीय झाले.
Raghu who was impressed by the devotion towards his preceptor decided to attack Kuber. Kubera out of fear of Raghu showered abundant gold coins before the attack itself. Seeing that, Raghu who was happy called Kautsa and wished to give him all the gold.
But the desireless Kautsa said, “O King, I only wish for fourteen crore gold coins as Guru Dakshina. I do not want more. King wished to give everything, but the seeker did not desire to take more. Due to this incident, the charitable Raghu and the selfless (desireless) Kautsa became respectable for the people of Saket (Ayodhya).
सन्धिविग्रहः
- दातुमुत्सुक: – दातुम् + उत्सुक:
- प्रीतोऽस्मि – प्रीतः + अस्मि।
- कामपि – काम् + अपि।
- नेच्छामि – न + इच्छामि।
- कोऽपि – कः + अपि।
- दातुमिच्छामि – दातुम् + इच्छामि।
- पूर्वमेव – पूर्वम् + एव।
- कुबेरमाकान्तुम् – कुबेरम् + आक्रान्तुम्।
- सुवर्णवृष्टिमकरोत् – सुवर्णवृष्टिम् + अकरोत्।
- अधिकमादातुम् – अधिकम् + आदातुम्।
- द्वावपि – द्वौ + अपि।
समानार्थकशब्दाः
- ऋषिः – मुनिः, साधुः, तपोधनः।
- निपुणः – कुशलः, पारङ्गतः, प्रवीणः ।
- प्रकृत्या – स्वभावेन/स्वभावतः।
- श्रुत्वा – आकर्ण्य।
- भृशम् – बहु, प्रभूतम्।
- प्रीतः – प्रसन्नः।
- वारंवारम् – पुनः पुनः।
- वचः – उक्तिः , वचनम्।
- गुरुः – आचार्यः, अध्यापकः।
- सकाशात् – समीपे, निकटे, निकषा।
- चिन्ताकुलः – चिन्तितः, चिन्ताग्रस्तः।
- विचार्य – चिन्तयित्वा, मत्वा।
- यज्ञः – क्रतुः, मखः, यागः।
- अशेषम् – नि:शेषम्।
- धनम् – वित्तम्, अर्थम्, द्रविणम्।
- विश्रामः . विश्रान्तिः, अनायासः।
- सङ्कल्पः – प्रतिज्ञा, निश्चयः ।
- कनकम, हेम, काञ्चनम् – सुवर्णम्।
- नि:स्पृहः – निरिच्छः ।
- अभिलषामि – वाञ्छामि।
- ग्रहीतुम् – आदातुम्।
- दानी, दानवीरः – दानशूरः।
- वन्दनीयौ – पूजनीयौ।
- धनाधिपः, धनदः – कुबेरः।
- राजा – पार्थिवः, माभृत, भूपः, महीक्षितः
विरुद्धार्थकशब्दाः
- निपुण: × अकुशल:
- दयालुः × कूरः
- मेधाविनः × मूढाः, मूर्खा:
- बहवः × अल्पाः, स्तोकाः
- समाप्य × आरभ्य, प्रारभ्य
- उत्सुक: × अनुत्सुकः
- भृशम् × अल्पम्, स्तोकम् .
- प्रीतः × कुद्धः
- वारंवारम् × कदाचित्
- असन्तुष्टः × सन्तुष्टः ।
- न्यूनम्, अल्पम् × अधिकम्।
- कृपणः × दानशूरः।
- लोभी × निरिच्छ:, निस्पृहः।
- नय × आनय।
- निश्चिन्तः × चिन्ताकुलः।
- शेषम् × अशेषम्।
- पश्चात् × पूर्वम्।
शब्दार्थाः
- तपोवनम् – penance grove – तपस्येकरिता वन
- निपुणः – expert – कुशल
- प्रकृत्या – by nature – स्वभावाने
- मेधाविनः – intelligent – हुशार
- बटुः – brahmin boy – ब्राह्मण मुलगा
- समाप्य – having finished – संपवून
- सविनयम् – politely – नम्रपणे
- उपागच्छत् – approached, went near – जवळ गेला
- श्रुत्वा – by hearing – ऐकून
- उक्तवान् – said – म्हटले
- भृशम् – a lot – अतिशय
- स्वस्ति – may all be well – कुशल असो
- निवारितः – refused – प्रतिबंधित, अडवलेला
- परीक्षितुम् – to test – परीक्षा घेण्यासाठी
- सकाशात् – near – कडे
- अधीताः – learnt – शिकलेल्या
- चिन्ताकुल: – worried – चिंतित
- विहाय – except – शिवाय
- एतावती – this much – इतक्या
- विचार्य – after thinking – विचार करून
- अशेषम् – all – सगळे
- आहूय – after calling – बोलावून
- प्रयोजनम् – purpose – हेतु
- विश्रामः – rest – वित्रांती
- सुवर्णमुद्राः – gold coins – सोन्याची नाणी
- गुरुभक्त्या – by devotion towards the preceptor – गुरुभक्तीने
- ‘आक्रान्तुम् – to invade, attack – आक्रमण करण्यासाठी
- नि:स्पृहः – desireless – निरिच्छ, निर्लोभी
- चिन्ताकुल: worried – चिंतित
- पूजनीयौ respectable – बंदनीय
- प्रभावितः – impressed – प्रभावित
- सङ्कल्पम् अकरोत् – vowed – निशय केला
- वाञ्छामि / अभिलषामि – I desire – मी इच्छितो
- प्रभूता – a lot – पुष्कळ