Sanskrit Aamod Std 9 Digest Chapter 4 विध्यर्थमाला Textbook Questions and Answers
भाषाभ्यासः
श्लोकः 1
1. एकवाक्येन उत्तरत।
प्रश्न अ.
विद्यार्थी किं त्यजेत् ?
उत्तरम् :
विद्यार्थी सुखं त्यजेत् ।
प्रश्न आ.
सुखार्थी किं त्यजेत् ?
उत्तरम् :
सुखार्थी विद्या त्यजेत् ।
2. सन्धिविग्रहं कुरुत।
प्रश्न 1.
- त्यजेद्विद्याम्
- त्यजेत्सुखम्
- कुतो विद्या
- कुतो विद्यर्थिनः
उत्तरम् :
- त्यजेद्विद्याम् – त्यजेत् + विद्याम् ।
- त्यजेत्सुखम् – त्यजेत् + सुखम् ।
- कुतो विद्या – कुतः + विद्या ।
- कुतो विद्यार्थिन: – कुतः + विद्यार्थिनः ।
3. समानार्थकशब्दं लिखत।
- विद्या
- विद्यार्थी
उत्तरम् :
- विद्या – ज्ञानम्, शिक्षा ।
- विद्यार्थी – छात्र:, शिष्यः, अन्तेवासी।
4. प्रश्ननिर्माणं कुरुत।
प्रश्न अ.
सुखार्थी विद्यां न लभते।
उत्तरम् :
सुखार्थी किं न लभते ?
प्रश्न आ.
विद्यार्थी सुखं न लभते।
उत्तरम् :
कः सुखं न लभते ।
श्लोक: 2.
1. एकवाक्येन उत्तरत।
प्रश्न अ.
कीदृशं जलं पिबेत् ?
उत्तरम् :
वस्त्रपूतं सुखं त्यजेत्।
प्रश्न आ.
कीदृशीं वाणी वदेत् ?
उत्तरम् :
सत्यपूतां वाणी वदेत्।
2. समानार्थकशब्दं चित्वा लिखत ।
वाक्, पवित्रम्, ऋतम्, उदकम् ।
प्रश्न 1.
समानार्थकशब्दं चित्वा लिखत ।
वाक्, पवित्रम्, ऋतम्, उदकम् ।
उत्तरम् :
- वाक् – वाणी।
- पवित्रम् – पूतम्।
- ऋतम् – सत्यम्।
- उदकम् – जलम्।
3. स्तम्भमेलनं कुरुत।
प्रश्न 1.
उत्तरम् :
विशेषणम् | विशेष्यम् |
दृष्टिपूतः | पादः |
वस्त्रपूतम् | जलम् |
मनः पूतम् | आवरणम् |
सत्यपूता | वाणी |
श्लोकः 3
1. एकवाक्येन उत्तरत।
प्रश्न अ.
मनुजः कीदृशं धनं काङ्केत ?
उत्तरम् :
मनुज: अलब्ध धनं काक्षेत।
प्रश्न आ.
वृद्धं धनं कुत्र निक्षिपेत् ?
उत्तरम् :
वृद्धं धनं तीर्थेषु निक्षिपेत्।
2. क्रमानुसारं रचयत।
प्रश्न 1.
- धनस्य रक्षणम्।
- तीर्थेषु दानम्।
- धनस्य इच्छा ।
- धनस्य वर्धनम्।
उत्तरम् :
- धनस्य इच्छा।
- धनस्य रक्षणम् ।
- धनस्य वर्धनम् ।
- तीर्थेषु दानम् ।
3. पदपरिचयं लिखत।
उत्तरम् :
1. काङ्क्षत – काङ्क्ष धातुः प्रथमगण: आत्मनेपदं
विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
2. रक्षेत् – रक्ष धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार:
प्रथमपुरुष: एकवचनम्।
3. निक्षिपेत् – नि + क्षिप् धातुः प्रथमगण: परस्मैपदं
विधिलिङ्लकारः प्रथमपुरुष: एकवचनम्।
श्लोकः 4
1. एकवाक्येन उत्तरत।
प्रश्न अ.
क्रोधं केन जयेत्?
उत्तरम् :
क्रोधं अक्रोधेन जयेत्।
प्रश्न आ.
दानेन किं जयेत् ?
उत्तरम् :
दानेन कदर्य जयेत्।
प्रश्न इ.
सत्येन किं जयेत्?
उत्तरम् :
सत्येन अनृतं जयेत्।
2. विरुद्धार्थकशब्द लिखत ।
क्रोधः, असाधुः, सत्यम्, दानम् ।
उत्तरम् :
- क्रोध: × अक्रोधः, क्षमा।
- असाधुः × साधुः।
- सत्यम् × अनृतम्।
- दानम् × कदर्यम् ।
3. श्लोकात् तृतीयान्तपदानि चित्वा लिखत ।
उत्तरम् :
तृतीया – अक्रोधेन, साधुना, दानेन, सत्येन
4. सन्धिविग्रहं कुरुत ।
चानृतम्।
प्रश्न 1.
चानृतम्।
उत्तरम् :
चानृतम् – च + अनृतम्।
श्लोक: 5
1. एकवाक्येन उत्तरत।
प्रश्न अ.
दुःखे कान् पश्येत्?
उत्तरम् :
दुःखे दुःखाधिकान् पश्येत्।
प्रश्न आ.
सुखाधिकान् कदा पश्येत् ?
उत्तरम् :
सुखाधिकान् सुखे पश्येत्।
2. सन्धिविग्रहं कुरुत।
शत्रुभ्यामिव, नार्पयेत्।
उत्तरम् :
- शत्रुभ्यामिव – शत्रुभ्याम् + इव।
- नार्पयेत् – न + अर्पयेत्।
3 विरुद्धार्थकशब्द लिखत ।
सुखम्, अधिकम्, शोकः, शत्रुः ।
उत्तरम् :
- सुखम्: × दु:खम्।
- अधिकम् × न्यूनम, अल्पम्, स्तोकम्।
- शोक: × हर्षः, आनन्दः।
- शत्रुः × मित्रम्, सखा, सुहृद्।
4. जालरेखाचित्रं पूरयत।
प्रश्न 1.
उत्तरम् :
श्लोकः 6
1. एकवाक्येन उत्तरत।
प्रश्न अ.
प्रत्यहं किं प्रत्यवेक्षेत ?
उत्तरम् :
प्रत्यहं आत्मन: चरितं प्रत्यवेक्षेत।
प्रश्न आ.
चरितं केन तुल्यं माऽस्तु ?
उत्तरम् :
चरितं पशुभि: तुल्यं माऽस्तु।
प्रश्न इ.
चरितं केन तुल्यम् अस्तु ?
उत्तरम् :
चरितं सत्पुरुषै : तुल्यम् अस्तु।
2. सन्धिं कुरुत।
प्रश्न अ.
पशुभिः + तुल्यम्
उत्तरम् :
पशुभिस्तुल्यम् – पशुभिः + तुल्यम् ।
प्रश्न आ.
किम् + नु
उत्तरम् :
किन्नु – किम् + नु।
प्रश्न इ.
सत्पुरुषैः + इति
उत्तरम् :
सत्पुरुषैरिति – सत्पुरुषैः + इति।
प्रश्न ई.
नरः + चरितम्
उत्तरम् :
नरश्चरितमात्मनः – नरः + चरितम् + आत्मनः ।
3 समानार्थकशब्दानां युग्मं चिनुत ।
प्रश्न 1.
उत्तरम् :
अ | आ |
प्रत्यहम् | प्रतिदिनम् |
नर: | मनुज: |
चरितम् | वर्तनम् |
पशुः | मृगः |
तुल्यः | समः |
सत्पुरुषाः | सज्जनाः |
श्लोकः 7
1. एकवाक्येन उत्तरत।
प्रश्न अ.
नृपः अर्थान् कथं चिन्तयेत् ?
उत्तरम् :
नृपः अर्थान् बकवत् चिन्तयेत्।
प्रश्न आ.
नृपः कथं पराक्रमेत् ?
उत्तरम् :
नृपः सिंहवत् पराक्रमेत्।
प्रश्न इ.
नृपः कथम् अवलुम्पेत ?
उत्तरम् :
नृपः वृकवत् अवलुम्पेत।
प्रश्न ई.
नृपः कथं विनिष्पतेत् ?
उत्तरम् :
नृपः शशवत् विनिष्यतेत्।
2. लिङ्लकारस्य क्रियापदानि चिनुत ।
प्रश्न 1.
लिङ्लकारस्य क्रियापदानि चिनुत ।
3. श्लोकात् पशुद्वयं चिनुत लिखत च ।
प्रश्न 1.
श्लोकात् पशुद्वयं चिनुत लिखत च ।
4. सन्धिं कुरुत।
प्रश्न अ.
शशवत् + च
उत्तरम् :
शशवच्च – शशवत् + च।
प्रश्न आ.
च + अवलुम्पेत
उत्तरम् :
चावलुम्पेत – च + अवलुम्पेत।
प्रश्न इ.
चिन्तयेत् + अर्थान् ।
उत्तरम् :
बकवच्चिन्तयेदर्थान् – बकवत् + चिन्तयेत् + अर्थान् ।
Sanskrit Aamod Class 9 Textbook Solutions Chapter 4 विध्यर्थमाला Additional Important Questions and Answers
विभक्त्यन्तरूपाणि।
- प्रथमा – विद्या, सुखम्, विद्यार्थी, सुखार्थी।
- द्वितीया – विद्याम, सुखम्।
लकारं लिखत।
- त्यजेत् – त्यज् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
- न्यसेत् – न्यस् धातुः चतुर्थगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
- पिबेत् – पा – पिब् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
- वदेत् – वद् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुषः एकवचनम।
- समाचरेत् – सम् + आ + चर् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम।
- वर्धयेत् – वृध् – वर्धधातुः प्रथमगण: आत्मनेपदं प्रयोजकरूपम् विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
- जयेत् – जि – जय् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
- पश्येत् – दृश् – पश्य् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
- अयित् – ऋधातुः प्रथमगणः परस्मैपदं प्रयोजकरूपम्, विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
- प्रत्यवेक्षेत – प्रति + अव + ईश् धातुः प्रथमगण:आत्मनेपदं विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
- चिन्तयेत् – चिन्त् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं विधिलिङ्लकार: प्रथमपुरुषः एकवचनम्।
- पराक्रमेत् – परा + क्रम् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
- अवलुम्पेत – अव + लुम्प् धातुः षष्ठगण: उभयपदम् अत्र आत्मनेपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
- विनिष्पतेत् – वि + निस् + पत् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।
प्रश्न 1.
उत्तरम् :
प्रश्न 2.
उत्तरम् :
प्रश्न 3.
उत्तरम् :
प्रश्न 4.
उत्तरम् :
प्रश्न 5.
उत्तरम् :
प्रश्न 6.
उत्तरम् :
प्रश्न 7.
उत्तरम् :
प्रश्ननिर्माणं कुरुत।
प्रश्न 1.
1. दृष्टिपूतं पादं न्यसेत्।
2. मन:पूतं समाचारेत्।
उत्तरम् :
1. कथं पादं न्यसेत?
2. मन:पूतं किं कुर्यात् ? (पद्यांशं पठित्वा जालरेखाचित्रं पूरयत। )
प्रश्न 2.
1. लब्धं धनं प्रयत्नतः रक्षेत्।
2. रक्षितं धनं सम्यक् वर्धयेत।
उत्तरम् :
1. लब्धं धनं कथं रक्षेत?
2. कीदृशं धनं सम्यक् वर्धयेत?
प्रश्न 3.
1. असाधुं साधुना जयेत्।
2. दानेन कदर्य जयेत्।
उत्तरम् :
1. असा, केन जयेत्?
2. दानेन किं जयेत्?
विधिलिङ् क्रियापदैः जालचित्रं पूरयत।
प्रश्न 1.
उत्तरम् :
विभक्त्यन्तरूपाणि
- प्रथम – नरः।
- द्वितीया – दुःखाधिकान्, सुखाधिकान्, आत्मानम्।
- तृतीया – पशुभिः, सत्पुरुषैः।
- चतुर्थी – शोकहर्षाभ्याम्, शत्रुभ्याम्।
- सप्तमी – दुःखे, सुखे।
प्रवनिर्माणं कुरुत।
प्रश्न 1.
शत्रुभ्याम् इव शोकहर्षाभ्याम् आत्मानं न अर्पयेत्।
उत्तरम् :
काभ्याम् इव शोकहर्षाभ्याम् आत्मानं न अर्पयेत्?
प्रश्न 2.
- नर: आत्मनःचरितं प्रत्यवेक्षेत।
- प्रत्यहम् आत्मनः चरितं प्रत्यवेक्षेत।
- मे चरितं पशुभिः तुल्यम्।
- मे चरितं सत्पुरुषै : तुल्यम्।
- नृपः बकवत् अर्थान् चिन्तयेत्।
- नृपः सिंह: इव पराक्रमेत् ।
उत्तरम् :
- कआत्मनःचरितं प्रत्यवेक्षेत?
- कदा आत्मन: चरितं प्रत्यवेक्षेत?
- मे चरितं कै: तुल्यम्?
- मे चरितं कै: तुल्यम्?
- नृपः बकवत् कान् चिन्तयेत्?
- नृपः कः इव पराक्रमेत्?
सूचनानुसारं कृती: कुरुत।
प्रश्न 1.
विशेषण – विशेष्य – सम्बन्धः।
‘धनम्’ इति शब्दस्य चत्वारि विशेषणनि चिनुत ।
उत्तरम् :
अलब्धम्, लब्धम्, रक्षितम्, वृद्धम्।
लेखनकौशलम्
- हर्षः – वर्षाकाले हर्ष : भवेत्। वर्षाकाले प्रमोदः/ आनन्द: भवेत्।
- वचः – गुरोः वच: अनुकरणीयः। गुरोः व्याहार : अनुकरणीयः।
- शत्रुः – सः शत्रु: अतीव बलवान् आसीत्। सः रिपुः / वैरी अतीव बलवान् आसीत्।
व्याकरणम् :
नाम – तालिका।
धातु – तालिका।
समासाः।
समस्तपदम् | अर्थ: | समासविग्रहः | समासनाम |
शोकहर्षाभ्याम् | grief and happiness | शोकः च, हर्षः च, ताभ्याम्। | इतरेतर द्वन्द्व समास |
दृष्टिपूतम् | purified by sight | दृष्ट्या पूतम्। | तृतीया तत्पुरुष समास |
वस्त्रपूतम् | purified by cloth | वस्त्रेण पूतम्। | तृतीया तत्पुरुष समास |
सत्यपूताम् | purified with truth | सत्येन पूता, ताम्। | तृतीया तत्पुरुष समास |
मन:पूतम् | purified with mind | मनसा पूतम्। | तृतीया तत्पुरुष समास |
धातुसाधितविशेषणानि।
विध्यर्थमाला Summary in Marathi and English
प्रस्तावना :
सुभाषिते हा संस्कृत साहित्याचा अविभाज्य भाग आहे. सुभाषिते कमी शब्दात खोल अर्थ सांगतात. सुभाषिते मनोरंजक तसेच माहितीपर असतात. काही सुभाषिते आपण कसे वागावे, काय करावे, काय करू नये हे सांगतात.
प्रस्तुत पद्य पाठामध्ये अशाच सुभाषितांचा समावेश आहे, जी आपल्याला काय करावे आणि काय करू नये ते सांगतात. “विध्यर्थ’ (विधि-अर्थ) हा शब्द आपल्याला क्रियेची गरज सांगतो.
We know that subhashitas that are an integral part of Sanskrit literature convey a very deep meaning. They are entertaining, as well as informative. Some subhashitas guide us as to how we should behave, what we should do and what are the things we should not do.
As the name suggests विध्यार्थमाला is a collection of beautiful slokas that tell us what we should do and what we should not do. The word foraf (विधि-अर्थ) tells the worth, necessity of an action.
श्लोकः 1
सुखार्थी ………………….. सुखम् ।।1।।
श्लोकः : सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।।1।। (अनुष्टुभ्)
अन्वयः सुखार्थी चेत् विद्यां त्यजेत्। विद्यार्थी चेत् सुखं त्यजेत्। सुखार्थिन: विद्या कुतः? विद्यार्थिनः सुखं कुतः?
अनुवादः
सुखाची इच्छा असणाऱ्याने विद्येचा त्याग करावा. विद्येची इच्छा असणाऱ्याने सुखाचा त्याग करावा. सुखाची इच्छा असणाऱ्यांस विद्या कुठून मिळणार? विद्येची इच्छा असणाऱ्यांस सुख कुठून मिळणार?
If a person desires comforts he should give up knowledge. If a person desires knowledge he should give up comforts. From where do the ones yearning for comforts get knowledge? From where do the ones desiring knowledge get comfort?
श्लोकः 2
दृष्टिपूतं …………………….. समाचारेत् ।।2।।
श्लोकः : दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम्।
सत्यपूतां वदेत् वाणीं मनःपूतं समाचारेत् ।।2।। (मनुस्मृतिः) (अनुष्टुभ)
अन्वयः दृष्टिपूतं पादं न्यसेत् । वस्त्रपूतं जल पिबेत् । सत्यपूतां वाणी वदेत् । मन:पूतं समाचरेत्।
अनुवादः
योग्यरीत्या पाहून पाय ठेवावा. वस्त्राने गाळून घेतलेले पाणी प्यावे. सत्याने पवित्र झालेली भाषा बोलावी आणि योग्य रीतीने विचार करुन (मनन करून) वर्तन करावे.
One should take a step after seeing. One should drink water purified by a cloth. One should speak words purified with truth and one should act after thinking.
श्लोकः 3
धनमलब्ध …………………….. निक्षिपेत् ।।3।।
श्लोकः : धनमलब्धं काङ्क्षत, लब्धं रक्षेत् प्रयत्नतः।
रक्षितं वर्धयेत् सम्यक्, वृद्ध तीर्थेषु निक्षिपेत् ।।3।। (अनुष्टुभ)
अन्वयः : अलब्धं धनं काहक्षेत। लब्ब (धन) प्रयत्नतः रक्षेत्। रक्षितं (धन) सम्यक् वर्धयेत्। वृद्धं (धन) तीर्थेषु निक्षिपेत्।।
अनुवादः
न मिळालेल्या धनाची इच्छा करावी. प्राप्त झालेल्या धनाचे प्रयत्नपुर्वक रक्षण करावे. रक्षण केलेले धन चांगल्या रीतीने वाढवावे. अधिक (वाढलेले) धन तीर्थक्षेत्री / चांगल्या ठिकाणी (कार्यात) दान करावे.
One should wish for wealth which is not obtained. One should protect that which is obtained with efforts. That which is protected should be enhanced properly and the wealth which is enhanced should be put into good use. (given in charity)
श्लोकः 4
अक्रोयेन ………………. चानृतम् ।।4।।
श्लोकः : अक्रोधेन जयेत् क्रोधम् असाधु साधुना जयेत्।
जयेत् कदयं दानेन जयेत् सत्येन चानृतम् ।।4।।(अनुष्टुभ्)
अन्वयः : अक्रोधेन क्रोधं जयेत् । साधुना असाधुं जयेत् । दानेन कदर्य जयेत् । सत्येन च अनृतम् जयेत्।
अनुवादः
क्रोधाला शांततेने (क्षमेने) जिंकावे, सज्जनाने दुष्टाला जिंकावे (चांगल्याने | वाईटाला जिंकावे), कंजूषपणाला दानाने जिंकावे आणि सत्याने असत्याला जिंकावे.
One should win over anger with calmness. One should win over the wicked with goodness. One should win over miserliness with charity and one should win over falsehood with truth.
श्लोकः 5
दुःखे ………………………… नार्पयेत् ।।5।।
श्लोकः : दुःखे दु:खाधिकान् पश्येत् सुखे पश्येत् सुखाधिकान्।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ।।5।। (अनुष्टुभ)
अन्वयः दुःखे दुःखाधिकान् पश्येत्। सुखे सुखाधिकान् पश्येत् । (मानव:) शत्रुभ्याम् इव शोकहर्षाभ्याम् आत्मानं न अर्पयेत् ।
अनुवादः
दु:खात अधिक दुःख असलेल्याकडे पाहावे. सुखात अधिक सुख असलेल्याकडे पाहावे. माणसाने स्वत:ला शत्रूप्रमाणे असलेल्या दुःख व सुखाला समर्पित करू नये.
One would see an abundance of sorrow when sad. One would see an abundance of happiness when happy. Man should not surrender himself to sorrow and happiness which are like enemies.
श्लोकः 6
प्रत्यहं ……………………… सत्पुरुषैरिति ।।6।।
श्लोकः : प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषैरिति ।।6।। (अनुष्टुभ)
अन्वयः नर: आत्मन: चरितं प्रत्यहं प्रत्यवेक्षेत किं नु मे (चरित) पशुभि: तुल्यम्? किं नु (मे चरित) सत्पुरुषैः (तुल्यम्) इति।
अनुवादः
मनुष्याचे स्वत:च्या चारित्र्याकडे (वर्तनाकडे) बारकाईने दररोज पाहावे (आणि विचारावे) “खरेच माझे बर्तन पशूसमान आहे की सज्जनांसमान?”
Man should observe his behaviour daily (and ask) “Did I behave like animals? Or did I behave like good people?”
श्लोकः 7
बकवच्चिन्तयेदर्थान् ……………… विनिष्यतेत् ।।7।।
श्लोकः बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।।7।। (अनुष्टुभ्)
अन्वयः (नृपः) बकवत् अर्थान् चिन्तयेत् सिंहवत् च पराक्रमेत् । वृकवत् अवलुम्पेत शशवत् च विनिष्यतेत्।
अनुवादः
बगळ्याप्रमाणे सिंहाप्रमाणे लांडग्याप्रमाणे सश्याप्रमाणे फाडावे, नामोहरम करावे बाहेर पडावे विचार करावा पराक्रम करावा (राजाने) बगळ्याप्रमाणे होणाऱ्या लाभाचा विचार करावा. सिंहाप्रमाणे पराक्रम गाजवावा. लांडग्याप्रमाणे शत्रूला फाडावे (नामोहरम कराव)(आणि) सश्याप्रमाणे शत्रूच्या व्यूहातून बाहेर पडावे.
(A king) One should think about the purpose like a crane. He should be brave like a lion. He should tear down the enemy like a wolf and should get out of the enemy’s array (व्यूह) like a rabbit.
सन्धिविग्रहः
- धनमलब्धम् – धनम् + अलब्धम् ।
- सिंहवच्च – सिंहवत् + च।
- वृकवच्च – वृकवत् + च।
विरुद्धार्थकशब्दाः
- त्यजेत् × स्वीकुर्यात, गृह्णीयात् ।
- सुखम् × दुःखम् ।
- अलब्धम् × लब्धम्।
- सत्यम् × असत्यम्।
- पूतम् × मलिनम्, अस्वच्छम, अमङ्गलम् ।
- सत्पुरुषाः × दुर्जनाः, खलाः, दुष्टाः।
समानार्थकशब्दाः
- वाणी – वाक्, भाषा, ब्राह्मी, भारती, गिर् ।
- पूतम् – पवित्रम्, पावनम् ।
- सत्यम् – ऋतम् ।
- जलम् – नीरम्, उदकम्, तोयम्, अम्बु, पयः ।
- काक्षेत – इच्छेत्।
- लब्धम् – प्राप्तम्।
- धनम् – वित्तम्, अर्थम्, द्रविणम्।
- सम्यक् – सुष्ठु ।
- कोधः – रोषः।
- असाधुः – दुष्ट, दुर्जनः।
- कदर्यम् – कृपणता।
- सत्यम् – ऋतम्।
- असत्यम् – अनृतम्।
- दु:खम् – शोकः।
- हर्षः – आनन्दः।
- शत्रुः – रिपुः, अरिः, वैरी।
- अधिकम् – प्रभूतम्, बहु।
- सिंहः – वनराजः, केसरी, मृगेन्द्रः।
- शश: – शशकः।
- प्रत्यहम् – प्रतिदिनम्।
- नरः – मनुजः, पुरुषः।
- चरितम् – वर्तनम्।
- पशुः – प्राणी, मृगः।
- तुल्यः – समः।
- सत्पुरुषाः – सज्जनाः।
शब्दार्थाः
- सुखार्थी – one who wishes happiness – सुखाची इच्छा असणारा
- चेत् – if – जर
- विद्या – knowledge – विद्या, ज्ञान
- त्यजेत् – should leave – त्याग करावा
- कुतः – from where/how – कुठून
- सुखम् – happiness – सुख
- दृष्टिपूतम् – after seeing (purified by sight) – नीट पाहून
- न्यसेत् – should place – ठेवावे
- समाचरेत् – should act – वागावे
- काङ्क्षेत – should wish – इच्छा करावी
- रक्षेत् – shoul protect – रक्षण करावे
- प्रयत्नतः – with efforts – प्रयत्नपूर्वक
- वर्धयेत् – should enhance – वाढवावे
- सम्यक् – properly – योग्यरीत्या
- क्रोध – anger – राग
- अक्रोधेन – with calmness – शांततेने
- असाधु – wicked – दुष्ट
- कदर्यम् – miserliness – कंजूषपणा
- अनृतम् – falsehood – असत्य
- दुःखे – in sorrow – दुःखात
- आत्मानम् – oneself – स्वत:ला
- सुखे – in happiness – सुखात
- शोकहर्षाभ्याम् – to sorrow and happiness – दु:ख व सुखाला
- न अर्पयेत् – should not surrender – समर्पित करू नये
- आत्मनः – of oneself – स्वत:चे
- चरितम् – behaviour – वर्तन
- प्रत्यहम् – everyday – दररोज
- प्रत्यवेक्षेत – observe – परीक्षण करावे
- तुल्यम् – like – सारखे, तुलना करण्यायोग्य
- बकवत् – like a crane – बगळ्याप्रमाणे
- सिंहवत् – like a lion – सिंहाप्रमाणे
- वृकवत् – like a wolf – लांडग्याप्रमाणे
- शशवत् – like a rabit – सश्याप्रमाणे
- अवलुम्पेत – should tear down – फाडावे, नामोहरम करावे
- विनिष्पतेत् – should get out of – बाहेर पडावे
- चिन्तयेत् – should think – विचार करावा
- पराक्रमेत् – should be brave – पराक्रम करावा